|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.30. अध्यायः 030
Mahabharata - AshramaVasika Parva - Chapter Topics
व्यासन धृतराष्ट्रंप्रति कुशलादिप्रश्नपूर्वकं विदुरस्य निजस्वरूपादिप्रतिपादनम्॥ 1 ॥ तथा इतरमहर्षिदुष्करतदभीष्टाश्चर्यकर्मकरणप्रतिज्ञानम्॥ 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
ततः समुपविष्टेषु पाण्डवेषु महात्मसु।
व्यासः सत्यवतीपुत्रः प्रोवाचामन्त्र्य पार्थिवम्॥ 16-30-1(97949)
धृतराष्ट्र महाबाहो कच्चित्ते वर्तते तपः।
कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप॥ 16-30-2(97950)
कच्चिद्धृदि न ते शोको राजन्पुत्रविनाशजः।
कच्चिज्ज्ञानानि सर्वाणि सुप्रसन्नानि तेऽनघ॥ 16-30-3(97951)
कच्चिद्बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम्।
कच्चिद्वधूश्च गान्धारी न शोकेनाभिभूयते॥ 16-30-4(97952)
महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी।
आगमापायतत्त्वज्ञा कच्चिदेषा न शोचति॥ 16-30-5(97953)
कच्चित्कुन्ती च राजंस्त्वां शुश्रूषत्यनहङ्कृता।
या परित्यज्य स्वं पुत्रं गुरुशुश्रूषणे रता॥ 16-30-6(97954)
कच्चिद्धर्मसुतो राजा त्वया प्रत्यभिनन्दितः।
भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्तिताः॥ 16-30-7(97955)
कच्चिन्नन्दसि दृष्ट्रैतान्कच्चिते निर्मलं मनः।
कच्चिच्च शुद्धभावोसि जातज्ञानो नराधिप॥ 16-30-8(97956)
एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत।
निर्वैरता महाराज सत्यमक्रोध एव च॥ 16-30-9(97957)
कच्चित्ते न च मोहोस्ति वनवासेन भारत।
स्वदत्ते वन्यमन्नं वा उपवासोपि वा भवेत्॥ 16-30-10(97958)
विदितं चापि राजेन्द्र विदुरस्य महात्मनः।
गमनं विधिनाऽनेन धर्मस्य सुमहात्मनः॥ 16-30-11(97959)
माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः।
महाबुद्धिर्महायोगी महात्मा सुमहामनाः॥ 16-30-12(97960)
बृहस्पतिर्वा देवेषु शुक्रो वाऽप्यसुरेषु च।
न तथा बुद्धिसम्पन्नो यथा स पुरुषर्षभः॥ 16-30-13(97961)
तपोबलव्ययं कृत्वा सुचिरात्सम्भृतं तदा।
माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः॥ 16-30-14(97962)
नियोगाद्ब्रह्मणः पूर्वं मया स्वेन बलेन च।
वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः॥ 16-30-15(97963)
भ्राता तव महाराज देवदेवः सनातनः।
धारणान्मनसा ध्यानाद्य धर्म कवयो विदुः॥ 16-30-16(97964)
सत्येन संवर्धयति यो दमेन शमेन च।
अहिंसया च दानेन तपसा च सनातनः॥ 16-30-17(97965)
येन योगबलाज्जातः कुरुराजो युधिष्ठिरः।
धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना॥ 16-30-18(97966)
यथा वह्निर्यथा वायुर्यथाऽऽपः पृथिवी यथा।
यथाऽऽकाशं तथा धर्म इह चामुत्र च स्थितः॥ 16-30-19(97967)
सर्वगश्चैव राजेन्द्र सर्वं व्याप्य चराचरम्।
दृश्यते देवदेवैः स सिद्धैर्निर्मुक्तकल्मषैः॥ 16-30-20(97968)
यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः।
स एष राजन्दृश्यस्ते माण्डवः प्रेष्यवत्स्थितः॥ 16-30-21(97969)
प्रविष्टः स महात्मानं भ्राता ते बुद्धिसम्मतः।
दृष्ट्वा महात्मा कौन्तेयं महायोगबलान्वितः॥ 16-30-22(97970)
त्वां चापि श्रेयसा योक्ष्ये नचिराद्भरतर्षभ।
संशयच्छेदनार्थाय प्राप्तं मां विद्धि पुत्रक॥ 16-30-23(97971)
न कृतं यैः पुरा कैश्चित्कर्म लोके महर्षिभिः।
आश्चर्यभूतं तपसः फलं तद्दर्शयामि वः॥ 16-30-24(97972)
किमिच्छसि महीपाल मत्तः प्राप्तुमभीप्सितम्।
द्रष्ट्रुं स्प्रष्टुमथ श्रोतुं तत्कर्तास्मि तवानघ॥ ॥ 16-30-25(97973)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि त्रिंशोऽध्यायः॥ 30 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-30-6 या परित्यव्य राज्यं स्वमिति क.थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|